Posts

Showing posts with the label Shri Ram Sahastra Namawali

श्री राम सहस्रनाम स्तोत्रम् राम जी के हजार नाम Shri Ram Sahastranam Stotram

Image
 श्री राम सहस्रनाम स्तोत्रम् अस्य श्रीरामसहस्रनामस्तोत्र महामन्त्रस्य, भगवान् ईश्वर ऋषिः, अनुष्टुप्छन्दः, श्रीरामः परमात्मा देवता, श्रीमान्महाविष्णुरिति बीजं, गुणभृन्निर्गुणो महानिति शक्तिः, संसारतारको राम इति मन्त्रः, सच्चिदानन्दविग्रह इति कीलकं, अक्षयः पुरुषः साक्षीति कवचं, अजेयः सर्वभूतानां इत्यस्त्रं, राजीवलोचनः श्रीमानिति ध्यानम् श्रीरामप्रीत्यर्थे दिव्यसहस्रनामजपे विनियोगः । ध्यानम् । ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् । वामाङ्कारूढसीतामुखकमलमिलल्लोचनं नीरदाभं नानालङ्कारदीप्तं दधतमुरुजटामण्डलं रामचन्द्रम् ॥ नीलाम्भोधरकान्तिकान्तमनिशं वीरासनाध्यासिनं मुद्रां ज्ञानमयीं दधानमपरं हस्ताम्बुजं जानुनि । सीतां पार्श्वगतां सरोरुहकरां विद्युन्निभां राघवं पश्यन्तीं मुकुटाङ्गदादिविविधाकल्पोज्ज्वलाङ्गं भजे ॥ अथ स्तोत्रम् । राजीवलोचनः श्रीमान् श्रीरामो रघुपुङ्गवः । रामभद्रः सदाचारो राजेन्द्रो जानकीपतिः ॥ १ ॥ अग्रगण्यो वरेण्यश्च वरदः परमेश्वरः । जनार्दनो जितामित्रः परार्थैकप्रयोजनः ॥ २ ॥ विश्वामित्रप्रियो दान्तः शत्रुजिच्छत्रुतापनः । ...